Sunday Meditation· Open to Everyone

प्रथम अध्याय, तृतीय खण्ड

संस्कृत

Passage 3.1

स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ १ ॥

पदच्छेद

सःsaḥईक्षतīkṣataइमेimeनुnuलोकाःlokāḥचcaलोकपालाःlokapālāḥचcaअन्नम्annamएभ्यःebhyaḥसृजैsṛjaiइतिiti

अन्वय

सः ईक्षत—इमे नु लोकाः च लोकपालाः च [सन्ति]; एभ्यः अन्नम् सृजा इति ।

Passage 3.2

सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायतान्नं वै तत् ॥ २ ॥

पदच्छेद

सःsaḥअपःapaḥअभ्यतपत्abhyatapatताभ्यःtābhyaḥअभितप्ताभ्यःabhitaptābhyaḥमूर्तिःmūrtiḥअजायतajāyataयाyāवैvaiसाsāमूर्तिःmūrtiḥअजायतajāyataअन्नम्annamवैvaiतत्tat

अन्वय

सः अपः अभ्यतपत् । ताभ्यः अभितप्ताभ्यः मूर्तिः अजायत । या वै सा मूर्तिः अजायत, तत् वै अन्नम् [अस्ति] ।

Passage 3.3

तदेनत्सृष्टं पराङत्यजिघांसत्तद्वाचाऽजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥ ३ ॥

पदच्छेद

तत्tatएनत्enatसृष्टम्sṛṣṭamपराङ्parāṅअत्यजिघांसत्atyajighāṃsatतत्tatवाचाvācāअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotवाचाvācāग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatवाचाvācāअग्रहैष्यत्agrahaiṣyatअभिव्याहृत्यabhivyāhṛtyaहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

Passage 3.4

तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् ॥ ४ ॥

पदच्छेद

तत्tatप्राणेनprāṇenaअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotप्राणेनprāṇenaग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatप्राणेनprāṇenaअग्रहैष्यत्agrahaiṣyatअभिप्राण्यabhiprāṇyaहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] प्राणेन अजिघृक्षत्; तत् प्राणेन ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् प्राणेन अग्रहैष्यत्, अभिप्राण्य ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.5

तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत् ॥ ५ ॥

पदच्छेद

तत्tatचक्षुषाcakṣuṣāअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotचक्षुषाcakṣuṣāग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatचक्षुषाcakṣuṣāअग्रहैष्यत्agrahaiṣyatदृष्ट्वाdṛṣṭvāहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] चक्षुषा अजिघृक्षत्; तत् चक्षुषा ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् चक्षुषा अग्रहैष्यत्, दृष्ट्वा ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.6

तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ॥ ६ ॥

पदच्छेद

तत्tatश्रोत्रेणśrotreṇaअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotश्रोत्रेणśrotreṇaग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatश्रोत्रेणśrotreṇaअग्रहैष्यत्agrahaiṣyatश्रुत्वाśrutvāहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] श्रोत्रेण अजिघृक्षत्; तत् श्रोत्रेण ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् श्रोत्रेण अग्रहैष्यत्, श्रुत्वा ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.7

तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत्त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥ ७ ॥

पदच्छेद

तत्tatत्वचाtvacāअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotत्वचाtvacāग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatत्वचाtvacāअग्रहैष्यत्agrahaiṣyatस्पृष्ट्वाspṛṣṭvāहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] त्वचा अजिघृक्षत्; तत् त्वचा ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् त्वचा अग्रहैष्यत्, स्पृष्ट्वा ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.8

तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् ॥ ८ ॥

पदच्छेद

तत्tatमनसाmanasāअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotमनसाmanasāग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatमनसाmanasāअग्रहैष्यत्agrahaiṣyatध्यात्वाdhyātvāहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] मनसा अजिघृक्षत्; तत् मनसा ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् मनसा अग्रहैष्यत्, ध्यात्वा ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.9

तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत् ॥ ९ ॥

पदच्छेद

तत्tatशिश्नेनśiśnenaअजिघृक्षत्ajighṛkṣatतत्tatनnaअशक्नोत्aśaknotशिश्नेनśiśnenaग्रहीतुम्grahītumसःsaḥयत्yatहhaएनत्enatशिश्नेनśiśnenaअग्रहैष्यत्agrahaiṣyatविसृज्यvisṛjyaहhaएवevaअन्नम्annamअत्रप्स्यत्atrapsyat

अन्वय

[सः पुरुषः] तत् [अन्नम्] शिश्नेन अजिघृक्षत्; तत् शिश्नेन ग्रहीतुम् न अशक्नोत् । सः यत् ह एनत् शिश्नेन अग्रहैष्यत्, विसृज्य ह एव अन्नम् अत्रप्स्यत् ।

Passage 3.10

तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ॥ १० ॥

पदच्छेद

तत्tatअपानेनapānenaअजिघृक्षत्ajighṛkṣatतत्tatआवयत्āvayatसःsaḥएषःeṣaḥअन्नस्यannasyaग्रहःgrahaḥयत्yatवायुःvāyuḥअन्नायुःannāyuḥवाvāएषःeṣaḥयत्yatवायुःvāyuḥ

अन्वय

[सः पुरुषः] तत् [अन्नम्] अपानेन अजिघृक्षत्; तत् आवयत् । यत् वायुः [अस्ति], सः एषः अन्नस्य ग्रहः [अस्ति] । यत् वायुः [अस्ति], एषः वै अन्नायुः [अस्ति] ।

Passage 3.11

स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११ ॥

पदच्छेद

सःsaḥईक्षतīkṣataकथम्kathamनुnuइदम्idamमत्matऋतेṛteस्यात्syātइतिitiसःsaḥईक्षतīkṣataकतरेणkatareṇaप्रपद्यैprapadyaiइतिitiसःsaḥईक्षतīkṣataयदिyadiवाचाvācāअभिव्याहृतम्abhivyāhṛtamयदिyadiप्राणेनprāṇenaअभिप्राणितम्abhiprāṇitamयदिyadiचक्षुषाcakṣuṣāदृष्टम्dṛṣṭamयदिyadiश्रोत्रेणśrotreṇaश्रुतम्śrutamयदिyadiत्वचाtvacāस्पृष्टम्spṛṣṭamयदिyadiमनसाmanasāध्यातम्dhyātamयदिyadiअपानेनapānenaअभ्यपानितम्abhyapānitamयदिyadiशिश्नेनśiśnenaविसृष्टम्visṛṣṭamअथathaकःkaḥअहम्ahamइतिiti

अन्वय

सः ईक्षत—इदम् मत् ऋते कथम् नु स्यात् इति । सः ईक्षत—कतरेण प्रपद्या इति । सः ईक्षत—यदि वाचा अभिव्याहृतम्, यदि प्राणेन अभिप्राणितम्, यदि चक्षुषा दृष्टम्, यदि श्रोत्रेण श्रुतम्, यदि त्वचा स्पृष्टम्, यदि मनसा ध्यातम्, यदि अपानेन अभ्यपानितम्, यदि शिश्नेन विसृष्टम्, अथ अहम् कः इति ।

Passage 3.12

स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम् । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १२ ॥

पदच्छेद

सःsaḥएतम्etamएवevaसीमानम्sīmānamविदर्यvidaryaएतयाetayāद्वाराdvārāप्रापद्यतprāpadyataसाsāएषाeṣāविदृतिःvidṛtiḥनामnāmaद्वाःdvāḥतत्tatएतत्etatनान्दनम्nāndanamतस्यtasyaत्रयःtrayaḥआवसथाःāvasathāḥत्रयःtrayaḥस्वप्नाःsvapnāḥअयम्ayamआवसथःāvasathaḥअयम्ayamआवसथःāvasathaḥअयम्ayamआवसथःāvasathaḥइतिiti

अन्वय

सः एतम् एव सीमानम् विदर्य एतया द्वारा प्रापद्यत । सा एषा विदृतिः नाम द्वाः [अस्ति]; तत् एतत् नान्दनम् [अस्ति] । तस्य त्रयः आवसथाः, त्रयः स्वप्नाः [सन्ति]—अयम् आवसथः, अयम् आवसथः, अयम् आवसथः इति ।

Passage 3.13

स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । इदमदर्शमिती ३ ॥ १३ ॥

पदच्छेद

सःsaḥजातःjātaḥभूतानिbhūtāniअभिव्यैख्यत्abhivyaikhyatकिम्kimइहihaअन्यम्anyamवावदिषत्vāvadiṣatइतिitiसःsaḥएतम्etamएवevaपुरुषम्puruṣamब्रह्मbrahmaततमम्tatamamअपश्यत्apaśyatइदम्idamअदर्शम्adarśamइतिiti

Passage 3.14

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १४ ॥

पदच्छेद

तस्मात्tasmātइदन्द्रःidandraḥनामnāmaइदन्द्रःidandraḥहhaवैvaiनामnāmaतम्tamइदन्द्रम्idandramसन्तम्santamइन्द्रःindraḥइतिitiआचक्षतेācakṣateपरोक्षेणparokṣeṇaपरोक्षप्रियाःparokṣapriyāḥइवivaहिhiदेवाःdevāḥपरोक्षप्रियाःparokṣapriyāḥइवivaहिhiदेवाःdevāḥ

अन्वय

तस्मात् इदन्द्रः नाम [अस्ति] । इदन्द्रः ह वै नाम [अस्ति] । तम् इदन्द्रम् सन्तम् परोक्षेण इन्द्रः इति आचक्षते । हि देवाः परोक्षप्रियाः इव [सन्ति]; हि देवाः परोक्षप्रियाः इव [सन्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · प्रथम अध्याय, तृतीय खण्ड

Read the whole section →