Sunday Meditation· Open to Everyone

ब्रह्मानन्दवल्ली

संस्कृत

Passage 2.9

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । एतँ ह वाव न तपति । किमहँ साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानँ स्पृणुते । उभे ह्येवैष एते आत्मानँ स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ १ ॥

पदच्छेद

यतःyataḥवाचःvācaḥनिवर्तन्तेnivartanteअप्राप्यaprāpyaमनसाmanasāसहsahaआनन्दम्ānandamब्रह्मणःbrahmaṇaḥविद्वान्vidvānनnaबिभेतिbibhetiकुतश्चनkutaścanaइतिitiएतम्etamहhaवावvāvaनnaतपतिtapatiकिम्kimअहम्ahamसाधुsādhuनnaअकरवम्akaravamकिम्kimअहम्ahamपापम्pāpamअकरवम्akaravamइतिitiसःsaḥयःyaḥएवम्evamविद्वान्vidvānएतेeteआत्मानम्ātmānamस्पृणुतेspṛṇuteउभेubheहिhiएवevaएषःeṣaḥएतेeteआत्मानम्ātmānamस्पृणुतेspṛṇuteयःyaḥएवम्evamवेदvedaइतिitiउपनिषत्upaniṣat

अन्वय

यतः मनसा सह [ब्रह्म] अप्राप्य वाचः निवर्तन्ते, [तस्य] ब्रह्मणः आनन्दम् विद्वान् [जनः] कुतश्चन न बिभेति इति । अहम् साधु किम् न अकरवम्, अहम् पापम् किम् अकरवम् इति एतम् ह वाव न तपति । यः एवम् विद्वान् [अस्ति], सः एते [पुण्यपापे आत्मरूपेण पश्यन्] आत्मानम् स्पृणुते; एषः हि एव उभे एते [पुण्यपापे आत्मरूपेण पश्यन्] आत्मानम् स्पृणुते । यः एवम् वेद [सः एवम् स्पृणुते] । इति उपनिषत् ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · ब्रह्मानन्दवल्ली

Read the whole section →