Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.6

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

आनन्दःānandaḥब्रह्मbrahmaइतिitiव्यजानात्vyajānātआनन्दात्ānandātहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteआनन्देनānandenaजातानिjātāniजीवन्तिjīvantiआनन्दम्ānandamप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiसाsāएषाeṣāभार्गवीbhārgavīवारुणीvāruṇīविद्याvidyāपरमेparameव्योमन्vyomanप्रतिष्ठिताpratiṣṭhitāसःsaḥयःyaḥएवम्evamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

[भृगुः] आनन्दः ब्रह्म इति व्यजानात् । आनन्दात् हि एव खलु इमानि भूतानि जायन्ते; जातानि आनन्देन जीवन्ति; प्रयन्ति आनन्दम् अभिसंविशन्ति इति । सा एषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता [अस्ति] । यः एवम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →