Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.10

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नँराद्धम् । मुखतोऽस्मा अन्नँराध्यते । एतद्वै मध्यतोऽन्नँराद्धम् । मध्यतोऽस्मा अन्नँराध्यते । एतद्वा अन्ततोऽन्नँराद्धम् । अन्ततोऽस्मा अन्नँराध्यते ॥ १ ॥

पदच्छेद

नnaकञ्चनkañcanaवसतौvasatauप्रत्याचक्षीतpratyācakṣītaतत्tatव्रतम्vratamतस्मात्tasmātययाyayāकयाkayāचcaविधयाvidhayāबहुbahuअन्नम्annamप्राप्नुयात्prāpnuyātअराधिarādhiअस्मैasmaiअन्नम्annamइतिitiआचक्षतेācakṣateएतत्etatवैvaiमुखतःmukhataḥअन्नम्annamराद्धम्rāddhamमुखतःmukhataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyateएतत्etatवैvaiमध्यतःmadhyataḥअन्नम्annamराद्धम्rāddhamमध्यतःmadhyataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyateएतत्etatवैvaiअन्ततःantataḥअन्नम्annamराद्धम्rāddhamअन्ततःantataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyate

अन्वय

वसतौ कञ्चन न प्रत्याचक्षीत; तत् व्रतम् [अस्ति] । तस्मात् यया कया च विधया बहु अन्नम् प्राप्नुयात् । [अन्नवन्तः विद्वांसः] अस्मा [अभ्यागताय] अन्नम् अराधि इति आचक्षते । एतत् वै मुखतः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] मुखतः अन्नम् राध्यते । एतत् वै मध्यतः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] मध्यतः अन्नम् राध्यते । एतत् वा अन्ततः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] अन्ततः अन्नम् राध्यते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →