Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.8

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamनnaपरिचक्षीतparicakṣītaतत्tatव्रतम्vratamआपःāpaḥवैvaiअन्नम्annamज्योतिःjyotiḥअन्नादम्annādamअप्सुapsuज्योतिःjyotiḥप्रतिष्ठितम्pratiṣṭhitamज्योतिषिjyotiṣiआपःāpaḥप्रतिष्ठिताःpratiṣṭhitāḥतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

अन्नम् न परिचक्षीत; तत् व्रतम् [अस्ति] । आपः वा अन्नम् [सन्ति]; ज्योतिः अन्नादम् [अस्ति] । अप्सु ज्योतिः प्रतिष्ठितम् [अस्ति]; ज्योतिषि आपः प्रतिष्ठिताः [सन्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →