Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.7

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamनnaनिन्द्यात्nindyātतत्tatव्रतम्vratamप्राणःprāṇaḥवैvaiअन्नम्annamशरीरम्śarīramअन्नादम्annādamप्राणेprāṇeशरीरम्śarīramप्रतिष्ठितम्pratiṣṭhitamशरीरेśarīreप्राणःprāṇaḥप्रतिष्ठितःpratiṣṭhitaḥतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

अन्नम् न निन्द्यात्; तत् व्रतम् [अस्ति] । प्राणः वा अन्नम् [अस्ति]; शरीरम् अन्नादम् [अस्ति] । प्राणे शरीरम् प्रतिष्ठितम् [अस्ति]; शरीरे प्राणः प्रतिष्ठितः [अस्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →