Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.11

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥

पदच्छेद

यःyaḥएवम्evamवेदvedaक्षेमःkṣemaḥइतिitiवाचिvāciयोगक्षेमःyogakṣemaḥइतिitiप्राणापानयोःprāṇāpānayoḥकर्मkarmaइतिitiहस्तयोःhastayoḥगतिःgatiḥइतिitiपादयोःpādayoḥविमुक्तिःvimuktiḥइतिitiपायौpāyauइतिitiमानुषीःmānuṣīḥसमाज्ञाःsamājñāḥअथathaदैवीःdaivīḥतृप्तिःtṛptiḥइतिitiवृष्टौvṛṣṭauबलम्balamइतिitiविद्युतिvidyuti

अन्वय

यः एवम् वेद, [तस्य यथोक्तम् फलम् उपनमते] । वाचि क्षेमः इति [ब्रह्म उपासीत]; प्राणापानयोः योगक्षेमः इति [ब्रह्म उपासीत]; हस्तयोः कर्म इति [ब्रह्म उपासीत]; पादयोः गतिः इति [ब्रह्म उपासीत]; पायौ विमुक्तिः इति [ब्रह्म उपासीत] । इति मानुषीः समाज्ञाः [सन्ति] । अथ दैवीः [समाज्ञाः उच्यन्ते]—वृष्टौ तृप्तिः इति [ब्रह्म उपासीत]; विद्युति बलम् इति [ब्रह्म उपासीत] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →