Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.4

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

मनःmanaḥब्रह्मbrahmaइतिitiव्यजानात्vyajānātमनसःmanasaḥहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteमनसाmanasāजातानिjātāniजीवन्तिjīvantiमनःmanaḥप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiतत्tatविज्ञायvijñāyaपुनःpunaḥएवevaवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतम्tamहhaउवाचuvācaतपसाtapasāब्रह्मbrahmaविजिज्ञासस्वvijijñāsasvaतपःtapaḥब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

[भृगुः] मनः ब्रह्म इति व्यजानात् । मनसः हि एव खलु इमानि भूतानि जायन्ते; जातानि मनसा जीवन्ति; प्रयन्ति मनः अभिसंविशन्ति इति । तत् विज्ञाय पुनः एव पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । तम् ह उवाच-तपसा ब्रह्म विजिज्ञासस्व; तपः ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [विज्ञानम् ब्रह्म इति व्यजानात्] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →