Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.9

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamबहुbahuकुर्वीतkurvītaतत्tatव्रतम्vratamपृथिवीpṛthivīवैvaiअन्नम्annamआकाशःākāśaḥअन्नादःannādaḥपृथिव्याम्pṛthivyāmआकाशःākāśaḥप्रतिष्ठितःpratiṣṭhitaḥआकाशेākāśeपृथिवीpṛthivīप्रतिष्ठिताpratiṣṭhitāतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

बहु अन्नम् कुर्वीत; तत् व्रतम् [अस्ति] । पृथिवी वा अन्नम् [अस्ति]; आकाशः अन्नादः [अस्ति] । पृथिव्याम् आकाशः प्रतिष्ठितः [अस्ति]; आकाशे पृथिवी प्रतिष्ठिता [अस्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →