Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.14

स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमाँल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५ ॥

पदच्छेद

सःsaḥयःyaḥएवम्वित्evamvitअस्मात्asmātलोकात्lokātप्रेत्यpretyaएतम्etamअन्नमयम्annamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamप्राणमयम्prāṇamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamमनोमयम्manomayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamविज्ञानमयम्vijñānamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamआनन्दमयम्ānandamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaइमान्imānलोकान्lokānकामान्नीkāmānnīकामरूपीkāmarūpīअनुसञ्चरन्anusañcaranएतत्etatसामsāmaगायन्gāyanआस्तेāsteहाhāवुvuहाhāवुvuहाhāवुvu

अन्वय

यः एवंवित् [अस्ति], सः अस्मात् लोकात् प्रेत्य एतम् अन्नमयम् आत्मानम् उपसङ्क्रम्य, एतम् प्राणमयम् आत्मानम् उपसङ्क्रम्य, एतम् मनोमयम् आत्मानम् उपसङ्क्रम्य, एतम् विज्ञानमयम् आत्मानम् उपसङ्क्रम्य, एतम् आनन्दमयम् आत्मानम् उपसङ्क्रम्य, कामान्नी कामरूपी इमान् लोकान् अनुसञ्चरन् एतत् साम गायन् आस्ते-हा ३ वु हा ३ वु हा ३ वु ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →