Sunday Meditation· Open to Everyone

मुण्डक 3 · खण्ड 2

संस्कृत

Passage 6.1

स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ ३.२.१ ॥

पदच्छेद

सःsaḥवेदvedaएतत्etatपरमम्paramamब्रह्मbrahmaधामdhāmaयत्रyatraविश्वम्viśvamनिहितम्nihitamभातिbhātiशुभ्रम्śubhramउपासतेupāsateपुरुषम्puruṣamयेyeहिhiअकामाःakāmāḥतेteशुक्रम्śukramएतत्etatअतिवर्तन्तिativartantiधीराःdhīrāḥ

अन्वय

सः एतत् परमम् ब्रह्म धाम वेद, यत्र विश्वम् निहितम् शुभ्रम् भाति । ये हि अकामाः पुरुषम् उपासते, ते धीराः एतत् शुक्रम् अतिवर्तन्ति ।

Passage 6.2

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ ३.२.२ ॥

पदच्छेद

कामान्kāmānयःyaḥकामयतेkāmayateमन्यमानःmanyamānaḥसःsaḥकामभिःkāmabhiḥजायतेjāyateतत्रtatraतत्रtatraपर्याप्तकामस्यparyāptakāmasyaकृतात्मनःkṛtātmanaḥतुtuइहihaएवevaसर्वेsarveप्रविलीयन्तिpravilīyantiकामाःkāmāḥ

अन्वय

यः कामान् मन्यमानः कामयते, सः कामभिः तत्र तत्र जायते । कृतात्मनः पर्याप्तकामस्य तु इह एव सर्वे कामाः प्रविलीयन्ति ।

Passage 6.3

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३.२.३ ॥

पदच्छेद

नnaअयम्ayamआत्माātmāप्रवचनेनpravacanenaलभ्यःlabhyaḥनnaमेधयाmedhayāनnaबहुनाbahunāश्रुतेनśrutenaयम्yamएवevaएषःeṣaḥवृणुतेvṛṇuteतेनtenaलभ्यःlabhyaḥतस्यtasyaएषःeṣaḥआत्माātmāविवृणुतेvivṛṇuteतनूम्tanūmस्वाम्svām

अन्वय

अयम् आत्मा प्रवचनेन न लभ्यः [अस्ति], मेधया न [लभ्यः], बहुना श्रुतेन न [लभ्यः] । एषः [विद्वान्] यम् एव [आत्मानम्] वृणुते, तेन [वरणेन अयम् आत्मा] लभ्यः [अस्ति] । तस्य एषः आत्मा स्वाम् तनूम् विवृणुते ।

Passage 6.4

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ३.२.४ ॥

पदच्छेद

नnaअयम्ayamआत्माātmāबलहीनेनbalahīnenaलभ्यःlabhyaḥनnaचcaप्रमादात्pramādātतपसःtapasaḥवाvāअपिapiअलिङ्गात्aliṅgātएतैःetaiḥउपायैःupāyaiḥयततेyatateयःyaḥतुtuविद्वान्vidvānतस्यtasyaएषःeṣaḥआत्माātmāविशतेviśateब्रह्मधामbrahmadhāma

अन्वय

अयम् आत्मा बलहीनेन न लभ्यः [अस्ति], प्रमादात् न च [लभ्यः], अलिङ्गात् तपसः वा अपि न [लभ्यः] । यः तु विद्वान् एतैः उपायैः यतते, तस्य एषः आत्मा ब्रह्मधाम विशते ।

Passage 6.5

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ३.२.५ ॥

पदच्छेद

संप्राप्यsaṃprāpyaएनम्enamऋषयःṛṣayaḥज्ञानतृप्ताःjñānatṛptāḥकृतात्मानःkṛtātmānaḥवीतरागाःvītarāgāḥप्रशान्ताःpraśāntāḥतेteसर्वगम्sarvagamसर्वतःsarvataḥप्राप्यprāpyaधीराःdhīrāḥयुक्तात्मानःyuktātmānaḥसर्वम्sarvamएवevaआविशन्तिāviśanti

अन्वय

ऋषयः एनम् सम्प्राप्य ज्ञानतृप्ताः कृतात्मानः वीतरागाः प्रशान्ताः [भवन्ति] । ते धीराः युक्तात्मानः सर्वगम् सर्वतः प्राप्य सर्वम् एव आविशन्ति ।

Passage 6.6

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ३.२.६ ॥

पदच्छेद

वेदान्तविज्ञानसुनिश्चितार्थाःvedāntavijñānasuniścitārthāḥसंन्यासयोगात्saṃnyāsayogātयतयःyatayaḥशुद्धसत्त्वाःśuddhasattvāḥतेteब्रह्मलोकेषुbrahmalokeṣuपरान्तकालेparāntakāleपरामृताःparāmṛtāḥपरिमुच्यन्तिparimucyantiसर्वेsarve

अन्वय

वेदान्तविज्ञानसुनिश्चितार्थाः यतयः संन्यासयोगात् शुद्धसत्त्वाः [भवन्ति] । ते सर्वे ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति ।

Passage 6.7

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ३.२.७ ॥

पदच्छेद

गताःgatāḥकलाःkalāḥपञ्चदशpañcadaśaप्रतिष्ठाःpratiṣṭhāḥदेवाःdevāḥचcaसर्वेsarveप्रतिदेवतासुpratidevatāsuकर्माणिkarmāṇiविज्ञानमयःvijñānamayaḥचcaआत्माātmāपरेpareअव्ययेavyayeसर्वेsarveएकीभवन्तिekībhavanti

अन्वय

पञ्चदश कलाः प्रतिष्ठाः गताः [भवन्ति]; सर्वे देवाः च प्रतिदेवतासु [गताः भवन्ति] । कर्माणि विज्ञानमयः च आत्मा सर्वे परे अव्यये एकीभवन्ति ।

Passage 6.8

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ३.२.८ ॥

पदच्छेद

यथाyathāनद्यःnadyaḥस्यन्दमानाःsyandamānāḥसमुद्रेsamudreअस्तम्astamगच्छन्तिgacchantiनामरूपेnāmarūpeविहायvihāyaतथाtathāविद्वान्vidvānनामरूपात्nāmarūpātविमुक्तःvimuktaḥपरात्parātपरम्paramपुरुषम्puruṣamउपैतिupaitiदिव्यम्divyam

अन्वय

यथा स्यन्दमानाः नद्यः नामरूपे विहाय समुद्रे अस्तम् गच्छन्ति, तथा नामरूपात् विमुक्तः विद्वान् परात् परम् दिव्यम् पुरुषम् उपैति ।

Passage 6.9

स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ३.२.९ ॥

पदच्छेद

सःsaḥयःyaḥहhaवैvaiतत्tatपरमम्paramamब्रह्मbrahmaवेदvedaब्रह्मbrahmaएवevaभवतिbhavatiनnaअस्यasyaअब्रह्मवित्abrahmavitकुलेkuleभवतिbhavatiतरतिtaratiशोकम्śokamतरतिtaratiपाप्मानम्pāpmānamगुहाग्रन्थिभ्यःguhāgranthibhyaḥविमुक्तःvimuktaḥअमृतःamṛtaḥभवतिbhavati

अन्वय

सः यः ह वै तत् परमम् ब्रह्म वेद, [सः] ब्रह्म एव भवति । अस्य कुले अब्रह्मवित् न भवति । [सः] शोकम् तरति, पाप्मानम् तरति; गुहाग्रन्थिभ्यः विमुक्तः अमृतः भवति ।

Passage 6.10

तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ ३.२.१० ॥

पदच्छेद

तत्tatएतत्etatऋचाṛcāअभ्युक्तम्abhyuktamक्रियावन्तःkriyāvantaḥश्रोत्रियाःśrotriyāḥब्रह्मनिष्ठाःbrahmaniṣṭhāḥस्वयम्svayamजुह्वतेjuhvateएकर्षिम्ekarṣimश्रद्धयन्तःśraddhayantaḥतेषाम्teṣāmएवevaएताम्etāmब्रह्मविद्याम्brahmavidyāmवदेतvadetaशिरोव्रतम्śirovratamविधिवत्vidhivatयैःyaiḥतुtuचीर्णम्cīrṇam

अन्वय

तत् एतत् ऋचा अभ्युक्तम्—ये क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः स्वयम् एकर्षिम् जुह्वतः श्रद्धयन्तः [सन्ति], यैः तु शिरोव्रतम् विधिवत् चीर्णम् [अस्ति], तेषाम् एव एताम् ब्रह्मविद्याम् वदेत ।

Passage 6.11

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ३.२.११ ॥

पदच्छेद

तत्tatएतत्etatसत्यम्satyamऋषिःṛṣiḥअङ्गिराःaṅgirāḥपुराpurāउवाचuvācaनnaएतत्etatअचीर्णव्रतःacīrṇavrataḥअधीतेadhīteनमःnamaḥपरमऋषिभ्यःparamaṛṣibhyaḥनमःnamaḥपरमऋषिभ्यःparamaṛṣibhyaḥ

अन्वय

तत् एतत् सत्यम् [अस्ति] । ऋषिः अङ्गिराः पुरा उवाच । अचीर्णव्रतः एतत् न अधीते । परमऋषिभ्यः नमः; परमऋषिभ्यः नमः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · मुण्डक 3 · खण्ड 2

Read the whole section →