Sunday Meditation· Open to Everyone

मुण्डक 1 · खण्ड 1

संस्कृत

Passage 1.1

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १.१.१ ॥

पदच्छेद

ॐoṃब्रह्माbrahmāदेवानाम्devānāmप्रथमःprathamaḥसंबभूवsaṃbabhūvaविश्वस्यviśvasyaकर्ताkartāभुवनस्यbhuvanasyaगोप्ताgoptāसःsaḥब्रह्मविद्याम्brahmavidyāmसर्वविद्याप्रतिष्ठाम्sarvavidyāpratiṣṭhāmअथर्वायatharvāyaज्येष्ठपुत्रायjyeṣṭhaputrāyaप्राहprāha

अन्वय

ॐ । विश्वस्य कर्ता भुवनस्य गोप्ता ब्रह्मा देवानाम् प्रथमः सम्बभूव । सः सर्वविद्याप्रतिष्ठाम् ब्रह्मविद्याम् ज्येष्ठपुत्राय अथर्वाय प्राह ।

Passage 1.2

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ १.१.२ ॥

पदच्छेद

अथर्वणेatharvaṇeयाम्yāmप्रवदेतpravadetaब्रह्माbrahmāअथर्वाatharvāताम्tāmपुराpurāउवाचuvācaअङ्गिरेaṅgireब्रह्मविद्याम्brahmavidyāmसःsaḥभारद्वाजायbhāradvājāyaसत्यवाहायsatyavāhāyaप्राहprāhaभारद्वाजःbhāradvājaḥअङ्गिरसेaṅgiraseपरावराम्parāvarām

अन्वय

ब्रह्मा अथर्वणे याम् ब्रह्मविद्याम् प्रवदेत, अथर्वा ताम् पुरा अङ्गिरे उवाच । सः भारद्वाजाय सत्यवाहाय [ताम्] प्राह; भारद्वाजः अङ्गिरसे परावराम् [ब्रह्मविद्याम् प्राह] ।

Passage 1.3

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ १.१.३ ॥

पदच्छेद

शौनकःśaunakaḥहhaवैvaiमहाशालःmahāśālaḥअङ्गिरसम्aṅgirasamविधिवत्vidhivatउपसन्नःupasannaḥपप्रच्छpapracchaकस्मिन्kasminनुnuभगवःbhagavaḥविज्ञातेvijñāteसर्वम्sarvamइदम्idamविज्ञातम्vijñātamभवतिbhavatiइतिiti

अन्वय

महाशालः शौनकः ह वै अङ्गिरसम् विधिवत् उपसन्नः पप्रच्छ—भगवः, कस्मिन् नु विज्ञाते इदम् सर्वम् विज्ञातम् भवति इति ।

Passage 1.4

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ १.१.४ ॥

पदच्छेद

तस्मैtasmaiसःsaḥहhaउवाचuvācaद्वेdveविद्येvidyeवेदितव्येveditavyeइतिitiहhaस्मsmaयत्yatब्रह्मविदःbrahmavidaḥवदन्तिvadantiपराparāचcaएवevaअपराaparāचca

अन्वय

सः तस्मै ह उवाच—परा च एव अपरा च [इति] द्वे विद्ये वेदितव्ये इति ह स्म यत् ब्रह्मविदः वदन्ति ।

Passage 1.5

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ १.१.५ ॥

पदच्छेद

तत्रtatraअपराaparāऋग्वेदःṛgvedaḥयजुर्वेदःyajurvedaḥसामवेदःsāmavedaḥअथर्ववेदःatharvavedaḥशिक्षाśikṣāकल्पःkalpaḥव्याकरणम्vyākaraṇamनिरुक्तम्niruktamछन्दःchandaḥज्योतिषम्jyotiṣamइतिitiअथathaपराparāययाyayāतत्tatअक्षरम्akṣaramअधिगम्यतेadhigamyate

अन्वय

तत्र अपरा [विद्या] ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः ज्योतिषम् इति [अस्ति] । अथ यया तत् अक्षरम् अधिगम्यते, [सा] परा [विद्या अस्ति] ।

Passage 1.6

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ १.१.६ ॥

पदच्छेद

यत्yatतत्tatअद्रेश्यम्adreśyamअग्राह्यम्agrāhyamअगोत्रम्agotramअवर्णम्avarṇamअचक्षुःश्रोत्रम्acakṣuḥśrotramतत्tatअपाणिपादम्apāṇipādamनित्यम्nityamविभुम्vibhumसर्वगतम्sarvagatamसुसूक्ष्मम्susūkṣmamतत्tatअव्ययम्avyayamयत्yatभूतयोनिम्bhūtayonimपरिपश्यन्तिparipaśyantiधीराःdhīrāḥ

अन्वय

धीराः यत् तत् अद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुःश्रोत्रम्, तत् अपाणिपादम् नित्यम् विभुम् सर्वगतम् सुसूक्ष्मम्, तत् अव्ययम् यत् भूतयोनिम् परिपश्यन्ति, [तत् एतत् अक्षरम्] ।

Passage 1.7

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥ १.१.७ ॥

पदच्छेद

यथाyathāऊर्णनाभिःūrṇanābhiḥसृजतेsṛjateगृह्णतेgṛhṇateचcaयथाyathāपृथिव्याम्pṛthivyāmओषधयःoṣadhayaḥसंभवन्तिsaṃbhavantiयथाyathāसतःsataḥपुरुषात्puruṣātकेशलोमानिkeśalomāniतथाtathāअक्षरात्akṣarātसंभवतिsaṃbhavatiइहihaविश्वम्viśvam

अन्वय

यथा ऊर्णनाभिः सृजते गृह्णते च, यथा पृथिव्याम् ओषधयः सम्भवन्ति, यथा सतः पुरुषात् केशलोमानि [सम्भवन्ति], तथा इह अक्षरात् विश्वम् सम्भवति ।

Passage 1.8

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ १.१.८ ॥

पदच्छेद

तपसाtapasāचीयतेcīyateब्रह्मbrahmaततःtataḥअन्नम्annamअभिजायतेabhijāyateअन्नात्annātप्राणःprāṇaḥमनःmanaḥसत्यम्satyamलोकाःlokāḥकर्मसुkarmasuचcaअमृतम्amṛtam

अन्वय

तपसा ब्रह्म चीयते; ततः अन्नम् अभिजायते । अन्नात् प्राणः मनः सत्यम् लोकाः कर्मसु च अमृतम् [अभिजायते] ।

Passage 1.9

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ १.१.९ ॥

पदच्छेद

यःyaḥसर्वज्ञःsarvajñaḥसर्ववित्sarvavitयस्यyasyaज्ञानमयम्jñānamayamतपःtapaḥतस्मात्tasmātएतत्etatब्रह्मbrahmaनामnāmaरूपम्rūpamअन्नम्annamचcaजायतेjāyate

अन्वय

यः सर्वज्ञः सर्ववित् [अस्ति], यस्य ज्ञानमयम् तपः [अस्ति], तस्मात् एतत् ब्रह्म नाम रूपम् अन्नम् च जायते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · मुण्डक 1 · खण्ड 1

Read the whole section →