Sunday Meditation· Open to Everyone

मुण्डक 3 · खण्ड 1

संस्कृत

Passage 5.1

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ ३.१.१ ॥

पदच्छेद

द्वाdvāसुपर्णाsuparṇāसयुजाsayujāसखायाsakhāyāसमानम्samānamवृक्षम्vṛkṣamपरिषस्वजातेpariṣasvajāteतयोःtayoḥअन्यःanyaḥपिप्पलम्pippalamस्वादुsvāduअत्तिattiअनश्नन्anaśnanअन्यःanyaḥअभिचाकशीतिabhicākaśīti

अन्वय

द्वा सुपर्णा सयुजा सखाया समानम् वृक्षम् परिषस्वजाते । तयोः अन्यः स्वादु पिप्पलम् अत्ति; अन्यः अनश्नन् अभिचाकशीति ।

Passage 5.2

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ३.१.२ ॥

पदच्छेद

समानेsamāneवृक्षेvṛkṣeपुरुषःpuruṣaḥनिमग्नःnimagnaḥअनीशयाanīśayāशोचतिśocatiमुह्यमानःmuhyamānaḥजुष्टम्juṣṭamयदाyadāपश्यतिpaśyatiअन्यम्anyamईशम्īśamअस्यasyaमहिमानम्mahimānamइतिitiवीतशोकःvītaśokaḥ

अन्वय

समाने वृक्षे निमग्नः पुरुषः अनीशया मुह्यमानः शोचति । यदा जुष्टम् अन्यम् ईशम् अस्य महिमानम् इति पश्यति, [तदा सः] वीतशोकः [भवति] ।

Passage 5.3

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३.१.३ ॥

पदच्छेद

यदाyadāपश्यःpaśyaḥपश्यतेpaśyateरुक्मवर्णम्rukmavarṇamकर्तारम्kartāramईशम्īśamपुरुषम्puruṣamब्रह्मयोनिम्brahmayonimतदाtadāविद्वान्vidvānपुण्यपापेpuṇyapāpeविधूयvidhūyaनिरञ्जनःnirañjanaḥपरमम्paramamसाम्यम्sāmyamउपैतिupaiti

अन्वय

यदा पश्यः रुक्मवर्णम् कर्तारम् ईशम् पुरुषम् ब्रह्मयोनिम् पश्यते, तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमम् साम्यम् उपैति ।

Passage 5.4

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ३.१.४ ॥

पदच्छेद

प्राणःprāṇaḥहिhiएषःeṣaḥयःyaḥसर्वभूतैःsarvabhūtaiḥविभातिvibhātiविजानन्vijānanविद्वान्vidvānभवतेbhavateनnaअतिवादीativādīआत्मक्रीडःātmakrīḍaḥआत्मरतिःātmaratiḥक्रियावान्kriyāvānएषःeṣaḥब्रह्मविदाम्brahmavidāmवरिष्ठःvariṣṭhaḥ

अन्वय

यः सर्वभूतैः विभाति, एषः हि प्राणः [अस्ति] । [एतत्] विजानन् विद्वान् न अतिवादी भवते । एषः आत्मक्रीडः आत्मरतिः क्रियावान् ब्रह्मविदाम् वरिष्ठः [अस्ति] ।

Passage 5.5

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ३.१.५ ॥

पदच्छेद

सत्येनsatyenaलभ्यःlabhyaḥतपसाtapasāहिhiएषःeṣaḥआत्माātmāसम्यग्ज्ञानेनsamyagjñānenaब्रह्मचर्येणbrahmacaryeṇaनित्यम्nityamअन्तःantaḥशरीरेśarīreज्योतिर्मयःjyotirmayaḥहिhiशुभ्रःśubhraḥयम्yamपश्यन्तिpaśyantiयतयःyatayaḥक्षीणदोषाःkṣīṇadoṣāḥ

अन्वय

एषः आत्मा सत्येन तपसा हि सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् लभ्यः [अस्ति] । हि [एषः] अन्तःशरीरे ज्योतिर्मयः शुभ्रः [अस्ति], यम् क्षीणदोषाः यतयः पश्यन्ति ।

Passage 5.6

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः । येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ ३.१.६ ॥

पदच्छेद

सत्यम्satyamएवevaजयतेjayateनnaअनृतम्anṛtamसत्येनsatyenaपन्थाःpanthāḥविततःvitataḥदेवयानःdevayānaḥयेनyenaआक्रमन्तिākramantiऋषयःṛṣayaḥहिhiआप्तकामाःāptakāmāḥयत्रyatraतत्tatसत्यस्यsatyasyaपरमम्paramamनिधानम्nidhānam

अन्वय

सत्यम् एव जयते, अनृतम् न [जयते] । सत्येन देवयानः पन्थाः विततः [अस्ति], येन हि आप्तकामाः ऋषयः आक्रमन्ति, यत्र तत् सत्यस्य परमम् निधानम् [अस्ति] ।

Passage 5.7

बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ३.१.७ ॥

पदच्छेद

बृहत्bṛhatचcaतत्tatदिव्यम्divyamअचिन्त्यरूपम्acintyarūpamसूक्ष्मात्sūkṣmātचcaतत्tatसूक्ष्मतरम्sūkṣmataramविभातिvibhātiदूरात्dūrātसुदूरेsudūreतत्tatइहihaअन्तिकेantikeचcaपश्यत्सुpaśyatsuइहihaएवevaनिहितम्nihitamगुहायाम्guhāyām

अन्वय

तत् बृहत् च दिव्यम् अचिन्त्यरूपम् [अस्ति]; तत् सूक्ष्मात् च सूक्ष्मतरम् विभाति । तत् दूरात् सुदूरे [अस्ति], इह अन्तिके च [अस्ति]; इह एव पश्यत्सु गुहायाम् निहितम् [अस्ति] ।

Passage 5.8

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ३.१.८ ॥

पदच्छेद

नnaचक्षुषाcakṣuṣāगृह्यतेgṛhyateनnaअपिapiवाचाvācāनnaअन्यैःanyaiḥदेवैःdevaiḥतपसाtapasāकर्मणाkarmaṇāवाvāज्ञानप्रसादेनjñānaprasādenaविशुद्धसत्त्वःviśuddhasattvaḥततःtataḥतुtuतम्tamपश्यतेpaśyateनिष्कलम्niṣkalamध्यायमानःdhyāyamānaḥ

अन्वय

[सः आत्मा] चक्षुषा न गृह्यते, वाचा न अपि [गृह्यते], अन्यैः देवैः तपसा कर्मणा वा न [गृह्यते] । ततः तु ज्ञानप्रसादेन विशुद्धसत्त्वः [यतिः] ध्यायमानः तम् निष्कलम् पश्यते ।

Passage 5.9

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ३.१.९ ॥

पदच्छेद

एषःeṣaḥअणुःaṇuḥआत्माātmāचेतसाcetasāवेदितव्यःveditavyaḥयस्मिन्yasminप्राणःprāṇaḥपञ्चधाpañcadhāसंविवेशsaṃviveśaप्राणैःprāṇaiḥचित्तम्cittamसर्वम्sarvamओतम्otamप्रजानाम्prajānāmयस्मिन्yasminविशुद्धेviśuddheविभवतिvibhavatiएषःeṣaḥआत्माātmā

अन्वय

यस्मिन् [शरीरे] प्राणः पञ्चधा संविवेश, [तत्र] एषः अणुः आत्मा चेतसा वेदितव्यः [अस्ति] । यस्मिन् [चित्ते] विशुद्धे एषः आत्मा विभवति, [तत्] प्रजानाम् सर्वम् चित्तम् प्राणैः [सह आत्मना] ओतम् [अस्ति] ।

Passage 5.10

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ ३.१.१० ॥

पदच्छेद

यम्yamयम्yamलोकम्lokamमनसाmanasāसंविभातिsaṃvibhātiविशुद्धसत्त्वःviśuddhasattvaḥकामयतेkāmayateयान्yānचcaकामान्kāmānतम्tamतम्tamलोकम्lokamजयतेjayateतान्tānचcaकामान्kāmānतस्मात्tasmātआत्मज्ञम्ātmajñamहिhiअर्चयेत्arcayetभूतिकामःbhūtikāmaḥ

अन्वय

विशुद्धसत्त्वः [विद्वान्] यम् यम् लोकम् मनसा संविभाति, यान् च कामान् कामयते, तम् तम् लोकम् तान् च कामान् जयते । तस्मात् हि भूतिकामः आत्मज्ञम् अर्चयेत् ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · मुण्डक 3 · खण्ड 1

Read the whole section →