Sunday Meditation· Open to Everyone

चतुर्थः प्रश्नः

संस्कृत

Passage 4.8

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ८ ॥

पदच्छेद

पृथिवीpṛthivīचcaपृथिवीमात्राpṛthivīmātrāचcaआपःāpaḥचcaआपोमात्राāpomātrāचcaतेजःtejaḥचcaतेजोमात्राtejomātrāचcaवायुःvāyuḥचcaवायुमात्राvāyumātrāचcaआकाशःākāśaḥचcaआकाशमात्राākāśamātrāचcaचक्षुःcakṣuḥचcaद्रष्टव्यम्draṣṭavyamचcaश्रोत्रम्śrotramचcaश्रोतव्यम्śrotavyamचcaघ्राणम्ghrāṇamचcaघ्रातव्यम्ghrātavyamचcaरसःrasaḥचcaरसयितव्यम्rasayitavyamचcaत्वक्tvakचcaस्पर्शयितव्यम्sparśayitavyamचcaवाक्vākचcaवक्तव्यम्vaktavyamचcaहस्तौhastauचcaआदातव्यम्ādātavyamचcaउपस्थःupasthaḥचcaआनन्दयितव्यम्ānandayitavyamचcaपायुःpāyuḥचcaविसर्जयितव्यम्visarjayitavyamचcaपादौpādauचcaगन्तव्यम्gantavyamचcaमनःmanaḥचcaमन्तव्यम्mantavyamचcaबुद्धिःbuddhiḥचcaबोद्धव्यम्boddhavyamचcaअहङ्कारःahaṅkāraḥचcaअहङ्कर्तव्यम्ahaṅkartavyamचcaचित्तम्cittamचcaचेतयितव्यम्cetayitavyamचcaतेजःtejaḥचcaविद्योतयितव्यम्vidyotayitavyamचcaप्राणःprāṇaḥचcaविधारयितव्यम्vidhārayitavyamचca

अन्वय

पृथिवी च पृथिवीमात्रा च, आपः च आपोमात्रा च, तेजः च तेजोमात्रा च, वायुः च वायुमात्रा च, आकाशः च आकाशमात्रा च, चक्षुः च द्रष्टव्यम् च, श्रोत्रम् च श्रोतव्यम् च, घ्राणम् च घ्रातव्यम् च, रसः च रसयितव्यम् च, त्वक् च स्पर्शयितव्यम् च, वाक् च वक्तव्यम् च, हस्तौ च आदातव्यम् च, उपस्थः च आनन्दयितव्यम् च, पायुः च विसर्जयितव्यम् च, पादौ च गन्तव्यम् च, मनः च मन्तव्यम् च, बुद्धिः च बोद्धव्यम् च, अहङ्कारः च अहङ्कर्तव्यम् च, चित्तम् च चेतयितव्यम् च, तेजः च विद्योतयितव्यम् च, प्राणः च विधारयितव्यम् च [पर आत्मनि सम्प्रतिष्ठन्ते] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · चतुर्थः प्रश्नः

Read the whole section →