Sunday Meditation· Open to Everyone

षष्ठः प्रश्नः

संस्कृत

Passage 6.5

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥

पदच्छेद

सःsaḥयथाyathāइमाःimāḥनद्यःnadyaḥस्यन्दमानाःsyandamānāḥसमुद्रायणाःsamudrāyaṇāḥसमुद्रम्samudramप्राप्यprāpyaअस्तम्astamगच्छन्तिgacchantiभिद्येतेbhidyeteतासाम्tāsāmनामरूपेnāmarūpeसमुद्रःsamudraḥइतिitiएवम्evamप्रोच्यतेprocyateएवम्evamएवevaअस्यasyaपरिद्रष्टुःparidraṣṭuḥइमाःimāḥषोडशकलाःṣoḍaśakalāḥपुरुषायणाःpuruṣāyaṇāḥपुरुषम्puruṣamप्राप्यprāpyaअस्तम्astamगच्छन्तिgacchantiभिद्येतेbhidyeteचcaआसाम्āsāmनामरूपेnāmarūpeपुरुषःpuruṣaḥइतिitiएवम्evamप्रोच्यतेprocyateसःsaḥएषःeṣaḥअकलःakalaḥअमृतःamṛtaḥभवतिbhavatiतत्tatएषःeṣaḥश्लोकःślokaḥ

अन्वय

यथा इमाः समुद्रायणाः नद्यः स्यन्दमानाः समुद्रम् प्राप्य अस्तम् गच्छन्ति, तासाम् नामरूपे भिद्येते, समुद्रः इति एवम् प्रोच्यते, एवम् एव अस्य परिद्रष्टुः इमाः पुरुषायणाः षोडश कलाः पुरुषम् प्राप्य अस्तम् गच्छन्ति । आसाम् च नामरूपे भिद्येते; पुरुषः इति एवम् प्रोच्यते । सः एषः अकलः अमृतः भवति । तत् एषः श्लोकः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · षष्ठः प्रश्नः

Read the whole section →