Sunday Meditation· Open to Everyone

माण्डूक्य उपनिषद्

संस्कृत

Passage 1.1

ओमित्येतदक्षरमिदँसर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥

पदच्छेद

ओम्omइतिitiएतत्etatअक्षरम्akṣaramइदम्idamसर्वम्sarvamतस्यtasyaउपव्याख्यानम्upavyākhyānamभूतम्bhūtamभवत्bhavatभविष्यत्bhaviṣyatइतिitiसर्वम्sarvamओङ्कारःoṅkāraḥएवevaयत्yatचcaअन्यत्anyatत्रिकालातीतम्trikālātītamतत्tatअपिapiओङ्कारःoṅkāraḥएवeva

अन्वय

ॐ इति एतत् अक्षरम् इदम् सर्वम् [अस्ति] । तस्य उपव्याख्यानम् [इदम्]—भूतम् भवत् भविष्यत् इति सर्वम् ओङ्कारः एव [अस्ति] । यत् च अन्यत् त्रिकालातीतम् [अस्ति], तत् अपि ओङ्कारः एव [अस्ति] ।

Passage 1.2

सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥

पदच्छेद

सर्वम्sarvamहिhiएतत्etatब्रह्मbrahmaअयम्ayamआत्माātmāब्रह्मbrahmaसःsaḥअयम्ayamआत्माātmāचतुष्पात्catuṣpāt

अन्वय

एतत् सर्वम् हि ब्रह्म [अस्ति] । अयम् आत्मा ब्रह्म [अस्ति] । सः अयम् आत्मा चतुष्पात् [अस्ति] ।

Passage 1.3

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥

पदच्छेद

जागरितस्थानःjāgaritasthānaḥबहिःप्रज्ञःbahiḥprajñaḥसप्ताङ्गःsaptāṅgaḥएकोनविंशतिमुखःekonaviṃśatimukhaḥस्थूलभुक्sthūlabhukवैश्वानरःvaiśvānaraḥप्रथमःprathamaḥपादःpādaḥ

अन्वय

जागरितस्थानः बहिःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः [अस्ति] ।

Passage 1.4

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥

पदच्छेद

स्वप्नस्थानःsvapnasthānaḥअन्तःप्रज्ञःantaḥprajñaḥसप्ताङ्गःsaptāṅgaḥएकोनविंशतिमुखःekonaviṃśatimukhaḥप्रविविक्तभुक्praviviktabhukतैजसःtaijasaḥद्वितीयःdvitīyaḥपादःpādaḥ

अन्वय

स्वप्नस्थानः अन्तःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसः द्वितीयः पादः [अस्ति] ।

Passage 1.5

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥

पदच्छेद

यत्रyatraसुप्तःsuptaḥनnaकञ्चनkañcanaकामम्kāmamकामयतेkāmayateनnaकञ्चनkañcanaस्वप्नम्svapnamपश्यतिpaśyatiतत्tatसुषुप्तम्suṣuptamसुषुप्तस्थानःsuṣuptasthānaḥएकीभूतःekībhūtaḥप्रज्ञानघनःprajñānaghanaḥएवevaआनन्दमयःānandamayaḥहिhiआनन्दभुक्ānandabhukचेतोमुखःcetomukhaḥप्राज्ञःprājñaḥतृतीयःtṛtīyaḥपादःpādaḥ

अन्वय

यत्र सुप्तः [पुरुषः] न कञ्चन कामम् कामयते, न कञ्चन स्वप्नम् पश्यति, तत् सुषुप्तम् [अस्ति] । सुषुप्तस्थानः एकीभूतः प्रज्ञानघनः एव आनन्दमयः हि आनन्दभुक् चेतोमुखः प्राज्ञः तृतीयः पादः [अस्ति] ।

Passage 1.6

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥

पदच्छेद

एषःeṣaḥसर्वेश्वरःsarveśvaraḥएषःeṣaḥसर्वज्ञःsarvajñaḥएषःeṣaḥअन्तर्यामीantaryāmīएषःeṣaḥयोनिःyoniḥसर्वस्यsarvasyaप्रभवाप्ययौprabhavāpyayauहिhiभूतानाम्bhūtānām

अन्वय

एषः सर्वेश्वरः [अस्ति]; एषः सर्वज्ञः [अस्ति]; एषः अन्तर्यामी [अस्ति]; एषः सर्वस्य योनिः [अस्ति] । हि [एषः एव] भूतानाम् प्रभवः च अप्ययः च [अस्ति] ।

Passage 1.7

नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥

पदच्छेद

नnaअन्तःप्रज्ञम्antaḥprajñamनnaबहिष्प्रज्ञम्bahiṣprajñamनnaउभयतःप्रज्ञम्ubhayataḥprajñamनnaप्रज्ञानघनम्prajñānaghanamनnaप्रज्ञम्prajñamनnaअप्रज्ञम्aprajñamअदृष्टम्adṛṣṭamअव्यवहार्यम्avyavahāryamअग्राह्यम्agrāhyamअलक्षणम्alakṣaṇamअचिन्त्यम्acintyamअव्यपदेश्यम्avyapadeśyamएकात्मप्रत्ययसारम्ekātmapratyayasāramप्रपञ्चोपशमम्prapañcopaśamamशान्तम्śāntamशिवम्śivamअद्वैतम्advaitamचतुर्थम्caturthamमन्यन्तेmanyanteसःsaḥआत्माātmāसःsaḥविज्ञेयःvijñeyaḥ

अन्वय

[तत्] न अन्तःप्रज्ञम्, न बहिःप्रज्ञम्, न उभयतःप्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, न अप्रज्ञम्; अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एकात्मप्रत्ययसारम् प्रपञ्चोपशमम् शान्तम् शिवम् अद्वैतम् चतुर्थम् [इति] मन्यन्ते । सः आत्मा [अस्ति]; सः विज्ञेयः [अस्ति] ।

Passage 1.8

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥

पदच्छेद

सःsaḥअयम्ayamआत्माātmāअधिadhiअक्षरम्akṣaramओङ्कारःoṅkāraḥअधिadhiमात्रम्mātramपादाःpādāḥमात्राःmātrāḥमात्राःmātrāḥचcaपादाःpādāḥअकारःakāraḥउकारःukāraḥमकारःmakāraḥइतिiti

अन्वय

सः अयम् आत्मा अधि अक्षरम् ओङ्कारः [अस्ति] । अधि मात्रम् पादाः मात्राः [सन्ति], मात्राः च पादाः [सन्ति]—अकारः उकारः मकारः इति ।

Passage 1.9

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९ ॥

पदच्छेद

जागरितस्थानःjāgaritasthānaḥवैश्वानरःvaiśvānaraḥअकारःakāraḥप्रथमाprathamāमात्राmātrāआप्तेःāpteḥआदिमत्त्वात्ādimattvātवाvāआप्नोतिāpnotiहhaवैvaiसर्वान्sarvānकामान्kāmānआदिःādiḥचcaभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

जागरितस्थानः वैश्वानरः आप्तेः आदिमत्त्वात् वा अकारः प्रथमा मात्रा [अस्ति] । यः एवम् वेद, [सः] ह वै सर्वान् कामान् आप्नोति, आदिः च भवति ।

Passage 1.10

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याऽब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥

पदच्छेद

स्वप्नस्थानःsvapnasthānaḥतैजसःtaijasaḥउकारःukāraḥद्वितीयाdvitīyāमात्राmātrāउत्कर्षात्utkarṣātउभयत्वात्ubhayatvātवाvāउत्कर्षतिutkarṣatiहhaवैvaiज्ञानसन्ततिम्jñānasantatimसमानःsamānaḥचcaभवतिbhavatiनnaअस्यasyaअब्रह्मवित्abrahmavitकुलेkuleभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

स्वप्नस्थानः तैजसः उत्कर्षात् उभयत्वात् वा उकारः द्वितीया मात्रा [अस्ति] । यः एवम् वेद, [सः] ह वै ज्ञानसन्ततिम् उत्कर्षति, समानः च भवति; अस्य कुले अब्रह्मवित् न भवति ।

Passage 1.11

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥

पदच्छेद

सुषुप्तस्थानःsuṣuptasthānaḥप्राज्ञःprājñaḥमकारःmakāraḥतृतीयाtṛtīyāमात्राmātrāमितेःmiteḥअपीतेःapīteḥवाvāमिनोतिminotiहhaवैvaiइदम्idamसर्वम्sarvamअपीतिःapītiḥचcaभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

सुषुप्तस्थानः प्राज्ञः मितेः अपीतेः वा मकारः तृतीया मात्रा [अस्ति] । यः एवम् वेद, [सः] ह वै इदम् सर्वम् मिनोति, अपीतिः च भवति ।

Passage 1.12

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२ ॥

पदच्छेद

अमात्रःamātraḥचतुर्थःcaturthaḥअव्यवहार्यःavyavahāryaḥप्रपञ्चोपशमःprapañcopaśamaḥशिवःśivaḥअद्वैतःadvaitaḥएवम्evamओङ्कारःoṅkāraḥआत्माātmāएवevaसंविशतिsaṃviśatiआत्मनाātmanāआत्मानम्ātmānamयःyaḥएवम्evamवेदveda

अन्वय

अमात्रः चतुर्थः अव्यवहार्यः प्रपञ्चोपशमः शिवः अद्वैतः [अस्ति] । एवम् ओङ्कारः आत्मा एव [अस्ति] । यः एवम् वेद, [सः] आत्मना आत्मानम् संविशति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · माण्डूक्य उपनिषद्

Read the whole section →