Sunday Meditation· Open to Everyone

ब्रह्मानन्दवल्ली

संस्कृत

Passage 2.8

भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषाऽऽनन्दस्य मीमाँसा भवति । युवा स्यात्साधुयुवाऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपि यन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ १ ॥

पदच्छेद

भीषाbhīṣāअस्मात्asmātवातःvātaḥपवतेpavateभीषाbhīṣāउदेतिudetiसूर्यःsūryaḥभीषाbhīṣāअस्मात्asmātअग्निःagniḥचcaइन्द्रःindraḥचcaमृत्युःmṛtyuḥधावतिdhāvatiपञ्चमःpañcamaḥइतिitiसाsāएषाeṣāआनन्दस्यānandasyaमीमांसाmīmāṃsāभवतिbhavatiयुवाyuvāस्यात्syātसाधुयुवाsādhuyuvāअध्यायकःadhyāyakaḥआशिष्ठःāśiṣṭhaḥदृढिष्ठःdṛḍhiṣṭhaḥबलिष्ठःbaliṣṭhaḥतस्यtasyaइयम्iyamपृथिवीpṛthivīसर्वाsarvāवित्तस्यvittasyaपूर्णाpūrṇāस्यात्syātसःsaḥएकःekaḥमानुषःmānuṣaḥआनन्दःānandaḥतेteयेyeशतम्śatamमानुषाःmānuṣāḥआनन्दाःānandāḥसःsaḥएकःekaḥमनुष्यगन्धर्वाणाम्manuṣyagandharvāṇāmआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamमनुष्यगन्धर्वाणाम्manuṣyagandharvāṇāmआनन्दाःānandāḥसःsaḥएकःekaḥदेवगन्धर्वाणाम्devagandharvāṇāmआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamदेवगन्धर्वाणाम्devagandharvāṇāmआनन्दाःānandāḥसःsaḥएकःekaḥपितॄणाम्pitṝṇāmचिरलोकलोकानाम्ciralokalokānāmआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamपितॄणाम्pitṝṇāmचिरलोकलोकानाम्ciralokalokānāmआनन्दाःānandāḥसःsaḥएकःekaḥआजानजानाम्ājānajānāmदेवानाम्devānāmआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamआजानजानाम्ājānajānāmदेवानाम्devānāmआनन्दाःānandāḥसःsaḥएकःekaḥकर्मदेवानाम्karmadevānāmदेवानाम्devānāmआनन्दःānandaḥयेyeकर्मणाkarmaṇāदेवान्devānअपिapiयन्तिyantiश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamकर्मदेवानाम्karmadevānāmदेवानाम्devānāmआनन्दाःānandāḥसःsaḥएकःekaḥदेवानाम्devānāmआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamदेवानाम्devānāmआनन्दाःānandāḥसःsaḥएकःekaḥइन्द्रस्यindrasyaआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamइन्द्रस्यindrasyaआनन्दाःānandāḥसःsaḥएकःekaḥबृहस्पतेःbṛhaspateḥआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamबृहस्पतेःbṛhaspateḥआनन्दाःānandāḥसःsaḥएकःekaḥप्रजापतेःprajāpateḥआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaतेteयेyeशतम्śatamप्रजापतेःprajāpateḥआनन्दाःānandāḥसःsaḥएकःekaḥब्रह्मणःbrahmaṇaḥआनन्दःānandaḥश्रोत्रियस्यśrotriyasyaचcaअकामहतस्यakāmahatasyaसःsaḥयःyaḥचcaअयम्ayamपुरुषेpuruṣeयःyaḥचcaअसौasauआदित्येādityeसःsaḥएकःekaḥसःsaḥयःyaḥएवम्वित्evamvitअस्मात्asmātलोकात्lokātप्रेत्यpretyaएतम्etamअन्नमयम्annamayamआत्मानम्ātmānamउपसङ्क्रामतिupasaṅkrāmatiएतम्etamप्राणमयम्prāṇamayamआत्मानम्ātmānamउपसङ्क्रामतिupasaṅkrāmatiएतम्etamमनोमयम्manomayamआत्मानम्ātmānamउपसङ्क्रामतिupasaṅkrāmatiएतम्etamविज्ञानमयम्vijñānamayamआत्मानम्ātmānamउपसङ्क्रामतिupasaṅkrāmatiएतम्etamआनन्दमयम्ānandamayamआत्मानम्ātmānamउपसङ्क्रामतिupasaṅkrāmatiतत्tatअपिapiएषःeṣaḥश्लोकःślokaḥभवतिbhavati

अन्वय

अस्मात् भीषा वातः पवते; भीषा सूर्यः उदेति; अस्मात् भीषा अग्निः च इन्द्रः च [धावतः], पञ्चमः मृत्युः धावति इति । सा एषा आनन्दस्य मीमांसा भवति । साधुयुवा अध्यायकः आशिष्ठः दृढिष्ठः बलिष्ठः युवा स्यात् । तस्य इयम् सर्वा पृथिवी वित्तस्य पूर्णा स्यात् । सः एकः मानुषः आनन्दः [अस्ति] । ये ते शतम् मानुषाः आनन्दाः [सन्ति], सः एकः मनुष्यगन्धर्वाणाम् आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् मनुष्यगन्धर्वाणाम् आनन्दाः [सन्ति], सः एकः देवगन्धर्वाणाम् आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् देवगन्धर्वाणाम् आनन्दाः [सन्ति], सः एकः चिरलोकलोकानाम् पितॄणाम् आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् चिरलोकलोकानाम् पितॄणाम् आनन्दाः [सन्ति], सः एकः आजानजानाम् देवानाम् आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् आजानजानाम् देवानाम् आनन्दाः [सन्ति], सः एकः कर्मदेवानाम् देवानाम् आनन्दः [अस्ति], ये कर्मणा देवान् अपि यन्ति; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् कर्मदेवानाम् देवानाम् आनन्दाः [सन्ति], सः एकः देवानाम् आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् देवानाम् आनन्दाः [सन्ति], सः एकः इन्द्रस्य आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् इन्द्रस्य आनन्दाः [सन्ति], सः एकः बृहस्पतेः आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् बृहस्पतेः आनन्दाः [सन्ति], सः एकः प्रजापतेः आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । ये ते शतम् प्रजापतेः आनन्दाः [सन्ति], सः एकः ब्रह्मणः आनन्दः [अस्ति]; श्रोत्रियस्य च अकामहतस्य [सः एव आनन्दः अस्ति] । यः च अयम् पुरुषे [अस्ति], यः च असौ आदित्ये [अस्ति], सः एकः [अस्ति] । सः यः एवंवित् [अस्ति], अस्मात् लोकात् प्रेत्य एतम् अन्नमयम् आत्मानम् उपसङ्क्रामति; एतम् प्राणमयम् आत्मानम् उपसङ्क्रामति; एतम् मनोमयम् आत्मानम् उपसङ्क्रामति; एतम् विज्ञानमयम् आत्मानम् उपसङ्क्रामति; एतम् आनन्दमयम् आत्मानम् उपसङ्क्रामति । तत् अपि एषः श्लोकः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · ब्रह्मानन्दवल्ली

Read the whole section →