Sunday Meditation· Open to Everyone

ब्रह्मानन्दवल्ली

संस्कृत

Passage 2.5

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

पदच्छेद

विज्ञानम्vijñānamयज्ञम्yajñamतनुतेtanuteकर्माणिkarmāṇiतनुतेtanuteअपिapiचcaविज्ञानम्vijñānamदेवाःdevāḥसर्वेsarveब्रह्मbrahmaज्येष्ठम्jyeṣṭhamउपासतेupāsateविज्ञानम्vijñānamब्रह्मbrahmaचेत्cetवेदvedaतस्मात्tasmātचेत्cetनnaप्रमाद्यतिpramādyatiशरीरेśarīreपाप्मनःpāpmanaḥहित्वाhitvāसर्वान्sarvānकामान्kāmānसमश्नुतेsamaśnuteइतिitiतस्यtasyaएषःeṣaḥएवevaशारीरःśārīraḥआत्माātmāयःyaḥपूर्वस्यpūrvasyaतस्मात्tasmātवैvaiएतस्मात्etasmātविज्ञानमयात्vijñānamayātअन्यःanyaḥअन्तरःantaraḥआत्माātmāआनन्दमयःānandamayaḥतेनtenaएषःeṣaḥपूर्णःpūrṇaḥसःsaḥवैvaiएषःeṣaḥपुरुषविधःpuruṣavidhaḥएवevaतस्यtasyaपुरुषविधताम्puruṣavidhatāmअनुanuअयम्ayamपुरुषविधःpuruṣavidhaḥतस्यtasyaप्रियम्priyamएवevaशिरःśiraḥमोदःmodaḥदक्षिणःdakṣiṇaḥपक्षःpakṣaḥप्रमोदःpramodaḥउत्तरःuttaraḥपक्षःpakṣaḥआनन्दःānandaḥआत्माātmāब्रह्मbrahmaपुच्छम्pucchamप्रतिष्ठाpratiṣṭhāतत्tatअपिapiएषःeṣaḥश्लोकःślokaḥभवतिbhavati

अन्वय

विज्ञानम् यज्ञम् तनुते, कर्माणि अपि च तनुते । सर्वे देवाः विज्ञानम् ज्येष्ठम् ब्रह्म उपासते । विज्ञानम् ब्रह्म चेत् वेद, तस्मात् चेत् न प्रमाद्यति, शरीरे पाप्मनः हित्वा सर्वान् कामान् समश्नुते इति । तस्य एषः एव शारीरः आत्मा [अस्ति], यः पूर्वस्य [आत्मा अस्ति] । तस्मात् वै एतस्मात् विज्ञानमयात् अन्यः अन्तरः आनन्दमयः आत्मा [अस्ति] । तेन एषः पूर्णः [अस्ति] । सः वै एषः पुरुषविधः एव [अस्ति] । तस्य पुरुषविधताम् अनु अयम् पुरुषविधः [अस्ति] । तस्य प्रियम् एव शिरः [अस्ति]; मोदः दक्षिणः पक्षः [अस्ति]; प्रमोदः उत्तरः पक्षः [अस्ति]; आनन्दः आत्मा [अस्ति]; ब्रह्म पुच्छम् प्रतिष्ठा [अस्ति] । तत् अपि एषः श्लोकः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · ब्रह्मानन्दवल्ली

Read the whole section →