Sunday Meditation· Open to Everyone

ब्रह्मानन्दवल्ली

संस्कृत

Passage 2.3

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

पदच्छेद

प्राणम्prāṇamदेवाःdevāḥअनुanuप्राणन्तिprāṇantiमनुष्याःmanuṣyāḥपशवःpaśavaḥचcaयेyeप्राणःprāṇaḥहिhiभूतानाम्bhūtānāmआयुःāyuḥतस्मात्tasmātसर्वायुषम्sarvāyuṣamउच्यतेucyateसर्वम्sarvamएवevaतेteआयुःāyuḥयन्तिyantiयेyeप्राणम्prāṇamब्रह्मbrahmaउपासतेupāsateप्राणःprāṇaḥहिhiभूतानाम्bhūtānāmआयुःāyuḥतस्मात्tasmātसर्वायुषम्sarvāyuṣamउच्यतेucyateइतिitiतस्यtasyaएषःeṣaḥएवevaशारीरःśārīraḥआत्माātmāयःyaḥपूर्वस्यpūrvasyaतस्मात्tasmātवैvaiएतस्मात्etasmātप्राणमयात्prāṇamayātअन्यःanyaḥअन्तरःantaraḥआत्माātmāमनोमयःmanomayaḥतेनtenaएषःeṣaḥपूर्णःpūrṇaḥसःsaḥवैvaiएषःeṣaḥपुरुषविधःpuruṣavidhaḥएवevaतस्यtasyaपुरुषविधताम्puruṣavidhatāmअनुanuअयम्ayamपुरुषविधःpuruṣavidhaḥतस्यtasyaयजुःyajuḥएवevaशिरःśiraḥऋक्ṛkदक्षिणःdakṣiṇaḥपक्षःpakṣaḥसामsāmaउत्तरःuttaraḥपक्षःpakṣaḥआदेशःādeśaḥआत्माātmāअथर्वाङ्गिरसःatharvāṅgirasaḥपुच्छम्pucchamप्रतिष्ठाpratiṣṭhāतत्tatअपिapiएषःeṣaḥश्लोकःślokaḥभवतिbhavati

अन्वय

देवाः, मनुष्याः, ये पशवः च [सन्ति], [ते] प्राणम् अनु प्राणन्ति । प्राणः हि भूतानाम् आयुः [अस्ति]; तस्मात् सर्वायुषम् उच्यते । ये प्राणम् ब्रह्म उपासते, ते सर्वम् एव आयुः यन्ति । प्राणः हि भूतानाम् आयुः [अस्ति]; तस्मात् सर्वायुषम् उच्यते इति । तस्य एषः एव शारीरः आत्मा [अस्ति], यः पूर्वस्य [आत्मा अस्ति] । तस्मात् वै एतस्मात् प्राणमयात् अन्यः अन्तरः मनोमयः आत्मा [अस्ति] । तेन एषः पूर्णः [अस्ति] । सः वै एषः पुरुषविधः एव [अस्ति] । तस्य पुरुषविधताम् अनु अयम् पुरुषविधः [अस्ति] । तस्य यजुः एव शिरः [अस्ति]; ऋक् दक्षिणः पक्षः [अस्ति]; साम उत्तरः पक्षः [अस्ति]; आदेशः आत्मा [अस्ति]; अथर्वाङ्गिरसः पुच्छम् प्रतिष्ठा [सन्ति] । तत् अपि एषः श्लोकः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · ब्रह्मानन्दवल्ली

Read the whole section →