Sunday Meditation· Open to Everyone

द्वितीयः खण्डः

संस्कृत

Passage 2.1

यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्येमेव ते मन्ये विदितम् ॥ १ ॥

पदच्छेद

यदिyadiमन्यसेmanyaseसुवेदsuvedaइतिitiदहरम्daharamएवevaअपिapiनूनम्nūnamत्वम्tvamवेत्थvetthaब्रह्मणःbrahmaṇaḥरूपम्rūpamयत्yatअस्यasyaत्वम्tvamयत्yatअस्यasyaदेवेषुdeveṣuअथathaनुnuमीमाँस्यम्mīmām̐syamएवevaतेteमन्येmanyeविदितम्viditam

Passage 2.2

नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

पदच्छेद

नnaअहम्ahamमन्येmanyeसुवेदsuvedaइतिitiनnaउuनnaवेदvedaइतिitiवेदvedaचcaयःyaḥनःnaḥतत्tatवेदvedaतत्tatवेदvedaनnaउuनnaवेदvedaइतिitiवेदvedaचca

अन्वय

अहम् सुवेद इति न मन्ये; न उ “न वेद” इति [मन्ये], [अहम्] वेद च । नः [सब्रह्मचारिणाम् मध्ये] यः तत् [उक्तम् वचनम्] वेद, [सः] तत् [ब्रह्म] वेद—न उ “न वेद” इति [मन्ये], [अहम्] वेद च [इति] ।

Passage 2.3

यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥

पदच्छेद

यस्यyasyaअमतम्amatamतस्यtasyaमतम्matamमतम्matamयस्यyasyaनnaवेदvedaसःsaḥअविज्ञातम्avijñātamविजानताम्vijānatāmविज्ञातम्vijñātamअविजानताम्avijānatām

अन्वय

यस्य अमतम् [अस्ति], तस्य मतम् [अस्ति]; यस्य मतम् [अस्ति], सः न वेद । विजानताम् अविज्ञातम् [अस्ति]; अविजानताम् विज्ञातम् [अस्ति] ।

Passage 2.4

प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

पदच्छेद

प्रतिबोधविदितम्pratibodhaviditamमतम्matamअमृतत्वम्amṛtatvamहिhiविन्दतेvindateआत्मनाātmanāविन्दतेvindateवीर्यम्vīryamविद्ययाvidyayāविन्दतेvindateअमृतम्amṛtam

अन्वय

प्रतिबोधविदितम् मतम् [अस्ति]; [विद्वान्] हि अमृतत्वम् विन्दते । आत्मना वीर्यम् विन्दते; विद्यया अमृतम् विन्दते ।

Passage 2.5

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

पदच्छेद

इहihaचेत्cetअवेदीत्avedītअथathaसत्यम्satyamअस्तिastiनnaचेत्cetइहihaअवेदीत्avedītमहतीmahatīविनष्टिःvinaṣṭiḥभूतेषुbhūteṣuभूतेषुbhūteṣuविचित्यvicityaधीराःdhīrāḥप्रेत्यpretyaअस्मात्asmātलोकात्lokātअमृताःamṛtāḥभवन्तिbhavanti

अन्वय

इह चेत् अवेदीत्, अथ सत्यम् अस्ति; इह न चेत् अवेदीत्, महती विनष्टिः [अस्ति] । धीराः भूतेषु भूतेषु विचित्य अस्मात् लोकात् प्रेत्य अमृताः भवन्ति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · द्वितीयः खण्डः

Read the whole section →