Sunday Meditation· Open to Everyone

तृतीय अध्याय

संस्कृत

Passage 5.3

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥

पदच्छेद

एषःeṣaḥब्रह्माbrahmāएषःeṣaḥइन्द्रःindraḥएषःeṣaḥप्रजापतिःprajāpatiḥएतेeteसर्वेsarveदेवाःdevāḥइमानिimāniचcaपञ्चमहाभूतानिpañcamahābhūtāniपृथिवीpṛthivīवायुःvāyuḥआकाशःākāśaḥआपःāpaḥज्योतींषिjyotīṃṣiइतिitiएतानिetāniइमानिimāniचcaक्षुद्रमिश्राणिkṣudramiśrāṇiइवivaबीजानिbījāniइतराणिitarāṇiचcaइतराणिitarāṇiचcaअण्डजानिaṇḍajāniचcaजारुजानिjārujāniचcaस्वेदजानिsvedajāniचcaउद्भिज्जानिudbhijjāniचcaअश्वाःaśvāḥगावःgāvaḥपुरुषाःpuruṣāḥहस्तिनःhastinaḥयत्yatकिञ्चkiñcaइदम्idamप्राणिprāṇiजङ्गमम्jaṅgamamचcaपतत्रिpatatriचcaयत्yatचcaस्थावरम्sthāvaramसर्वम्sarvamतत्tatप्रज्ञानेत्रम्prajñānetramप्रज्ञानेprajñāneप्रतिष्ठितम्pratiṣṭhitamप्रज्ञानेत्रःprajñānetraḥलोकःlokaḥप्रज्ञाprajñāप्रतिष्ठाpratiṣṭhāप्रज्ञानम्prajñānamब्रह्मbrahma

अन्वय

एषः ब्रह्मा [अस्ति]; एषः इन्द्रः [अस्ति]; एषः प्रजापतिः [अस्ति]; एते सर्वे देवाः [सन्ति] । इमानि च पञ्चमहाभूतानि—पृथिवी वायुः आकाशः आपः ज्योतींषि इति—एतानि; इमानि च क्षुद्रमिश्राणि इव बीजानि, इतराणि च इतराणि च, अण्डजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च, अश्वाः गावः पुरुषाः हस्तिनः; यत् किञ्च इदम् प्राणि जङ्गमम् च पतत्रि च, यत् च स्थावरम्, तत् सर्वम् प्रज्ञानेत्रम् प्रज्ञाने प्रतिष्ठितम् [अस्ति] । लोकः प्रज्ञानेत्रः [अस्ति]; प्रज्ञा प्रतिष्ठा [अस्ति]; प्रज्ञानम् ब्रह्म [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · तृतीय अध्याय

Read the whole section →