Sunday Meditation· Open to Everyone

प्रथम अध्याय, प्रथम खण्ड

संस्कृत

Passage 1.4

तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः । प्राणाद्वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४ ॥

पदच्छेद

तम्tamअभ्यतपत्abhyatapatतस्यtasyaअभितप्तस्यabhitaptasyaमुखम्mukhamनिरभिद्यतnirabhidyataयथाyathāअण्डम्aṇḍamमुखात्mukhātवाक्vākवाचःvācaḥअग्निःagniḥनासिकेnāsikeनिरभिद्येताम्nirabhidyetāmनासिकाभ्याम्nāsikābhyāmप्राणःprāṇaḥप्राणात्prāṇātवायुःvāyuḥअक्षिणीakṣiṇīनिरभिद्येताम्nirabhidyetāmअक्षिभ्याम्akṣibhyāmचक्षुःcakṣuḥचक्षुषःcakṣuṣaḥआदित्यःādityaḥकर्णौkarṇauनिरभिद्येताम्nirabhidyetāmकर्णाभ्याम्karṇābhyāmश्रोत्रम्śrotramश्रोत्रात्śrotrātदिशःdiśaḥत्वक्tvakनिरभिद्यतnirabhidyataत्वचःtvacaḥलोमानिlomāniलोमभ्यःlomabhyaḥओषधिवनस्पतयःoṣadhivanaspatayaḥहृदयम्hṛdayamनिरभिद्यतnirabhidyataहृदयात्hṛdayātमनःmanaḥमनसःmanasaḥचन्द्रमाःcandramāḥनाभिःnābhiḥनिरभिद्यतnirabhidyataनाभ्याःnābhyāḥअपानःapānaḥअपानात्apānātमृत्युःmṛtyuḥशिश्नम्śiśnamनिरभिद्यतnirabhidyataशिश्नात्śiśnātरेतःretaḥरेतसःretasaḥआपःāpaḥ

अन्वय

[सः] तम् [पुरुषम्] अभ्यतपत् । तस्य अभितप्तस्य मुखम् यथा अण्डम् निरभिद्यत । मुखात् वाक् [अजायत]; वाचः अग्निः [अजायत] । नासिके निरभिद्येताम्; नासिकाभ्याम् प्राणः [अजायत]; प्राणात् वायुः [अजायत] । अक्षिणी निरभिद्येताम्; अक्षिभ्याम् चक्षुः [अजायत]; चक्षुषः आदित्यः [अजायत] । कर्णौ निरभिद्येताम्; कर्णाभ्याम् श्रोत्रम् [अजायत]; श्रोत्रात् दिशः [अजायन्त] । त्वक् निरभिद्यत; त्वचः लोमानि [अजायन्त]; लोमभ्यः ओषधिवनस्पतयः [अजायन्त] । हृदयम् निरभिद्यत; हृदयात् मनः [अजायत]; मनसः चन्द्रमाः [अजायत] । नाभिः निरभिद्यत; नाभ्याः अपानः [अजायत]; अपानात् मृत्युः [अजायत] । शिश्नम् निरभिद्यत; शिश्नात् रेतः [अजायत]; रेतसः आपः [अजायन्त] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · प्रथम अध्याय, प्रथम खण्ड

Read the whole section →